|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.190. अध्यायः 190
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
सूर्यगार्ग्यादिभिः पृथक्पृथग्धर्मरहस्यकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
[विभावसुरुवाच।
सलिलस्याञ्जलिं पूर्णमक्षताश्च धृतोत्तराः।
सोमस्योत्तिष्ठमानस्य तज्जलं चाक्षतांश्च तान्॥ 13-190-1(88958)
स्थितो ह्यभिमुखो मर्त्यः पौर्णमास्यां बलिं हरेत्।
अग्निकार्यं कृतं तेन हुताश्चास्याग्नयस्त्रयः॥ 13-190-2(88959)
वनस्पतिं च यो हन्यादमावास्यामबुद्धिमान्।
अपि ह्येकेन पत्रेण लिप्यते ब्रह्महत्यया॥ 13-190-3(88960)
दन्तकाष्ठं तु यः खादेदमावास्यामबुद्धिमान्।
हिंसितश्चन्द्रमा**** पितरश्चोद्विजन्ति च॥ 13-190-4(88961)
हव्यं न तस्य देवाश्च प्रतिगृह्णन्ति पर्वसु।
कुप्यन्ते पितरश्चास्य कुले वंशोऽस्य हीयते॥ 13-190-5(88962)
श्रीरुवाच। 13-190-6x(7422)
प्रकीर्णं भाजनं यत्र भिन्नभाण्डमथासनम्।
योषितश्चैव हन्यन्ते कश्मलोपहते गृहे॥ 13-190-6(88963)
देवताः पितरश्चैव उत्सवे पर्वणीषु वा।
निराशाः प्रतिगच्छन्ति कश्मलोपहताद्गृहात्॥ 13-190-7(88964)
अङ्गिरा उवाच। 13-190-8x(7423)
यस्तु संवत्सरं पूर्णं दद्याद्दीपं करञ्जके।
सुवर्चलामूलहस्तः प्रजा तस्य विवर्धते॥ 13-190-8(88965)
गार्ग्य उवाच। 13-190-9x(7424)
आतीथ्यं सततं कुर्याद्दीपं दद्यात्प्रतिश्रये।
वर्जयानो दिवास्वापं न च मांसानि भक्षयेत्॥ 13-190-9(88966)
गोब्राह्मणं न हिंस्याच्च पुष्कराणि च कीर्तयेत्।
एत श्रेष्ठतमो धर्मः सरहस्यो महाफलः॥ 13-190-10(88967)
अपि क्रतुशतैरिष्ट्वा क्षयं गच्छति तद्धविः।
न तु क्षीयन्ति ते धर्माः श्रद्दधानैः प्रयोजिताः॥ 13-190-11(88968)
इदं च परमं गुह्यं सरहस्यं निबोधत।
श्राद्धकल्पे च दैवे च तैर्थिके पर्वणीषु च॥ 13-190-12(88969)
रजस्वला च या नारी श्वित्रिकाऽपुत्रिका च या।
एताभिश्चक्षुषा दृष्टं हविर्नाश्नन्ति देवताः।
पितरश्च न तुष्यन्ति वर्षाण्यपि त्रयोदश॥ 13-190-13(88970)
शुक्लवासाः शुचिर्भूत्वा ब्राह्मणान्स्वस्ति वाचयेत्।
कीर्तयेद्भारतं चैव तथा स्यादक्षयं हविः॥ 13-190-14(88971)
धौम्य उवाच। 13-190-15x(7425)
भिन्नभाण्डं च खट्वां च कुक्कुटं शुनकं तथा।
अप्रशस्तानि सर्वाणि यश्च वृक्षो गृहेरुहः॥ 13-190-15(88972)
भिन्नभाण्डे कलिं प्राहुः खट्वायां तु धनक्षयः।
कुक्कुटे शुनके चैव हविर्नाश्नन्ति देवताः।
वृक्षमूले ध्रुवं सत्वं तस्माद्वृक्षं न रोपयेत्॥ 13-190-16(88973)
जमदग्निरुवाच। 13-190-17x(7426)
यो यजेदश्वमेधेन वाजपेयशतेन ह।
अवाक्शिरा वा लम्बेत सत्रं वा स्फीतमाहरेत्॥ 13-190-17(88974)
न यस्य हृदयं शुद्धं नरकं स ध्रुवं व्रजेत्।
तुल्यं यज्ञश्च सत्यं च हृदयस्य च शुद्धता॥ 13-190-18(88975)
शुद्धेन मनसा दत्त्वा सक्तुप्रस्थं द्विजातये।
ब्रह्मलोकमनुप्राप्तः पर्याप्तं तन्निदर्शनम्॥] ॥ 13-190-19(88976)
इति श्रीमन्महाभारते अनुशासनपर्वणि नवत्यधिकशततमोऽध्यायः॥ 190 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-190-8 करञ्जसुवर्चले वृक्षवल्लिविशेषौ॥ 7-190-16 सत्वं वृश्चिकसर्पादि। न रोपयेत् गृहे इति शेषः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|